(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.24. अध्यायः 024
Mahabharata - Vana Parva - Chapter Topics
पाण्डवैश्चिरावस्थाननिर्धारणपूर्वकं द्वैतवनप्रवेशः ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text

वैशम्पायन उवाच। 3-24-0x(1842)(16573)
ततस्तेषु प्रयातेषु कौन्तेयः सत्यसंगरः।
अभ्यभाषत धर्मात्मा भ्रातॄन्सर्वान्युधिष्ठिरः ॥ 3-24-1(16574)
द्वादशेमाः समाऽस्माभिर्वस्तव्यं निर्जने वने।
समीक्षध्वं महारण्ये देशं बहुमृगद्विजम् ॥ 3-24-2(16575)
बहुपुष्पफलं रम्यं शिवं पुण्यजनोचितम्।
यत्रेमा द्वादश समाः सुखं प्रतिवसेमहि ॥ 3-24-3(16576)
एवमुक्ते प्रत्युवाच धर्मराजं धनंजयः।
गुरुवन्मानववरं मानयित्वा मनस्विनम् ॥ 3-24-4(16577)
भवानेव महर्षीणां वृद्धानां पर्युपासिता।
अज्ञातं मानुषे लोके भवतो नास्ति किंचन ॥ 3-24-5(16578)
त्वया ह्युपासिता नित्यं ब्राह्मणा वेदपारगाः।
द्वैपायनप्रभृतयो नारदश्च महातपाः ॥ 3-24-6(16579)
यः सर्वलोकद्वाराणि नित्यं संचरते वशी।
देवलोकाद्ब्रह्मलोकं गन्धर्वाप्सरसामपि ॥ 3-24-7(16580)
अनुभावांश्च जानासि ब्राह्मणानां न संशयः।
प्रभावांश्चैव वेत्थ त्वं सर्वेषामेव पार्थिव ॥ 3-24-8(16581)
त्वमेव राजञ्जानासि श्रेयःकारणमेव च।
यत्रेच्छसि महाराज निवासं तत्र कुंर्महे ॥ 3-24-9(16582)
इदं द्वैतवनं नाम सरः पुण्यजनोषितम्।
बहुपुष्पफलं रम्यं नानाद्विजनिषेवितम् ॥ 3-24-10(16583)
अत्रेमा द्वादश समा विहरेमेति रोचये।
यदि तेऽनुमतं राजन्किमन्यन्मन्यते भवान् ॥ 3-24-11(16584)
युधिष्ठिर उवाच। 3-24-12x(1843)
ममाप्येतन्मतं पार्थ त्वया यत्समुदाहृतम्।
गच्छामः पुण्यविख्यातं महद्द्वैतवनं सरः ॥ 3-24-12(16585)
वैशम्पायन उवाच। 3-24-13x(1844)
ततस्ते प्रययुः सर्वे पाण्डवा धर्मचारिणः।
ब्राह्मणैर्बहुभिः सार्धं पुण्यं द्वैतवनं सरः ॥ 3-24-13(16586)
ब्राह्मणाः साग्निहोत्राश्च तथैव च निरग्नयः।
स्वाध्यायिनो भिक्षवश्च तथैव वनवासिनः ॥ 3-24-14(16587)
बहवो ब्राह्मणास्तत्र परिवव्रुर्युधिष्ठिरम्।
तपस्विनः सत्यशीलाः शतशः संशितव्रताः ॥ 3-24-15(16588)
ते यात्वा पाण्डवास्तत्रब्राह्मणैर्बहुभिः सह।
पुण्यं द्वैतवनं रम्यं विविशुर्बरतर्षभाः ॥ 3-24-16(16589)
तत्सालतालाम्रमधूकनीप-
कदम्बसर्जार्जुनकर्णिकारैः।
तपात्यये पुष्पधरैरुपेतं
महावनं राष्ट्रपतिर्ददर्श ॥ 3-24-17(16590)
महाद्रुमाणां शिखरेषु तस्थु-
र्मनोरमां वाचमुदीरयन्तः।
मयूरदात्यूहचकोरसङ्घा-
स्तस्मिन्वने बर्हिणकोकिलाश्च ॥ 3-24-18(16591)
करेणुयूथैः सह यूथपानां
मदोत्कटानामचलप्रभाणाम्।
महान्ति यूथानि महाद्विपानां
तस्मिन्वने राष्ट्रपतिर्ददर्श ॥ 3-24-19(16592)
मनोरमां भोगवतीमुपेत्य
पूतात्मनां चीरजटाधराणाम्।
तस्मिन्वने धर्मभृतां निवासे
ददर्श सिद्धर्षिगणाननेकान् ॥ 3-24-20(16593)
ततः स यानादवरुह्य राजा
सभ्रातृकः सजनः काननं तत्।
विवेश धर्मात्मवतां बरिष्ठ-
स्त्रिविष्टपं शक्र इवामितौजाः ॥ 3-24-21(16594)
तं सत्यसन्धं सहिताऽभिपेतु-
र्दिदृक्षवश्चारणसिद्धसङ्घाः।
वनौकसश्चापि नेरन्द्रसिंहं
मनस्विनं तं परिवार्य तस्थुः ॥ 3-24-22(16595)
स तत्रवृद्धानभिवाद्य सर्वान्
प्रत्यर्चितो राजवद्देववच्च।
विवेश सर्वैः सहितो द्विजाग्र्यैः
कृताञ्जलिर्धर्मभृतां वरिष्ठः ॥ 3-24-23(16596)
स पुण्यशीलः पितृवन्महात्मा
तपस्विभिर्मपरैरुपेत्य।
प्रत्यर्चितः पुष्पधरस्य मूले
महाद्रुमस्योपविवेश राजा ॥ 3-24-24(16597)
भीमश्च कृष्णा च धनंजयश्च
यमौ च ते चानुचरा नरेन्द्रम्।
विमुच्यवाहानवशाश्च सर्वे
तत्रोपतस्थुर्भरतप्रबर्हाः ॥ 3-24-25(16598)
लतावतानावनतः स पाण्डवै-
र्महाद्रुमः पञ्चभिरेव धन्विभिः।
बभौ निवासोपगतैर्महात्मभि-
र्महागिरिर्वारणयूथपैरिव ॥ 3-24-26(16599)

इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि चतुर्विंशोऽध्यायः ॥ 24 ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-24-1 सत्यसंगर सत्यप्रतिज्ञः ॥ समाः वर्षाणि। संधिरार्षः ॥ 3-24-8 अनुभावान् कर्तव्याकर्तव्यविषयान्निश्चयान्। प्रभावो निग्रहानुग्रहशक्तिः। सर्वा गतीर्विजानासि इति क. पाठः ॥ 3-24-10 द्वैतं द्वौ शोकमोहौ इतौ गतौ यस्मात्तद्बीतं द्वीतमेव द्वैतम्। स्वार्थे तद्धितः। वनं जलं यस्मिन् द्वैतवनम् ॥ 3-24-11 विहरेम प्रीत्यानयेम ॥ 3-24-16 यात्वा गत्वा ॥ 3-24-17 तपात्यये वर्षासु ॥ 3-24-19 करेणुः हस्तिनी ॥ 3-24-20 भोगवतीं सरस्वतीं नदीम् ॥ 3-24-22 चारणाः देवगायनाः ॥ 3-24-24 महाद्रुमः कदम्बः ॥ 3-24-26 लतावतानावनतः वल्लीतन्तुभिरावृततया नम्रः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.